Gopi Geet
This is the most precious geet of srimad bhagvat, i.e., Gopi Geet. It was first sung by the gopies before the Maharas for their beloved Krishna. This is the Gopi's song of separation.
After Krishna and the gopis have met for the rasa and enjoyed freely, Krishna disappeared. The gopis searched for their beloved everywhere, asked the trees and creepers, and in their absorption conversed about him and acted out his transcendental pastimes. Returning to the bank of the Yamuna, the gopis sat down together to sing of him, eagerly hoping that Krishna would come back.
Śrīmad Bhāgavatam 10.31.1-19 (kṛṣṇa-rāsa-pañca-adhyāya)
॥ गोपीगीतम् ॥
गोप्य ऊचुः ।
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि।
दयित दृश्यतां दिक्शु तावका-
स्त्वयि धृतासवस्त्वां विचिन्वते ॥१॥
शरदुदाशये सधुजातस-
त्सरसिजोदरश्रीमुषा दृशा।
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्रतो नेह किं वधः ॥२॥
विषजलाप्ययाद्व्यालराक्शसा-
द्वर्षमारुताद्वैधुतानलात्।
वृषम्यात्मजाद्विश्वतोभया-
दृषभ ते वयं रक्शिता मुहुः ॥३॥
न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक।
विखनसार्थितो विश्वगुप्टये
सख उदेयिवान्सात्वतां कुले ॥४॥
विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात्।
करसरोरुहं कान्त कामदं
शिरसि धेहि नः श्रीकरग्रहम् ॥५॥
व्रजजनार्तिहन्वीर योषितां
निजजनस्मयध्वंसनस्मित।
भज सखे भवत्किंकरीः स्म नो
जलरुहाननं चारु दर्शय ॥६॥
प्रणतदेहिनां पापकर्शनं
तृणचरानुगं श्रीनिकेतनम्।
फणिफणार्पितं ते पदांबुजं
कृणु कुचेषु नः कृन्धि हृछयम् ॥७॥
मधुरया गिरा वल्गुवाक्य्या
बुधमनोज्ञया पुष्करेक्शण।
विधिकरीरिमा वीर मुह्यती-
रधरसीधुनाऽऽप्याययस्व नः ॥८॥
तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम।
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः ॥९॥
प्रहसितं प्रिय प्रेमवीक्शणं
विहरणं च ते धयानमङ्गलम्।
रहसि संविदो या ह्रदिस्पृशः
कुहक नो मनः क्शोभयन्ति हि ॥१०॥
विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात्।
करसरोरुहं कान्त कामदं
शिरसि धेहि नः श्रीकरग्रहम् ॥५॥
व्रजजनार्तिहन्वीर योषितां
निजजनस्मयध्वंसनस्मित।
भज सखे भवत्किंकरीः स्म नो
जलरुहाननं चारु दर्शय ॥६॥
प्रणतदेहिनां पापकर्शनं
तृणचरानुगं श्रीनिकेतनम्।
फणिफणार्पितं ते पदांबुजं
कृणु कुचेषु नः कृन्धि हृछयम् ॥७॥
मधुरया गिरा वल्गुवाक्य्या
बुधमनोज्ञया पुष्करेक्शण।
विधिकरीरिमा वीर मुह्यती-
रधरसीधुनाऽऽप्याययस्व नः ॥८॥
तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम।
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः ॥९॥
प्रहसितं प्रिय प्रेमवीक्शणं
विहरणं च ते धयानमङ्गलम्।
रहसि संविदो या ह्रदिस्पृशः
कुहक नो मनः क्शोभयन्ति हि ॥१०॥
चलसि यद्व्रजाच्चारयन्पशून्
नलिनसुन्दरं नाथ ते पदम्।
शिलतृणाङकुरैः सीदतीति नः
कलिलतां मनः कान्त गच्हति ॥११॥
दिनपरिक्शये नीलकुन्तलै-
र्वनरुहाननं बिभ्रदावृतम्।
घनरजस्वलं दर्शयन्मुहु-
र्मनसि नः स्मरं वीर यच्छसि ॥१२॥
प्रणतकामदं पद्मजार्चितं
धरणिमण्डनं ध्येयमापदि।
चरणपङ्कजं शंतमं च ते
रमण नः स्तनेष्वर्पयाधिहन् ॥१३॥
सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्बितम्।
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम् ॥१४॥
अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम्।
कुटिलकुन्तलं श्रीमुखं च ते
जड उदिक्शतां पक्श्मकृदृशाम् ॥१५॥
पतिसुतान्वयभ्रातृबान्धवा-
नतिविलङ्घय तेऽन्त्यच्युतागताः।
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निसि ॥१६॥
नलिनसुन्दरं नाथ ते पदम्।
शिलतृणाङकुरैः सीदतीति नः
कलिलतां मनः कान्त गच्हति ॥११॥
दिनपरिक्शये नीलकुन्तलै-
र्वनरुहाननं बिभ्रदावृतम्।
घनरजस्वलं दर्शयन्मुहु-
र्मनसि नः स्मरं वीर यच्छसि ॥१२॥
प्रणतकामदं पद्मजार्चितं
धरणिमण्डनं ध्येयमापदि।
चरणपङ्कजं शंतमं च ते
रमण नः स्तनेष्वर्पयाधिहन् ॥१३॥
सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्बितम्।
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम् ॥१४॥
अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम्।
कुटिलकुन्तलं श्रीमुखं च ते
जड उदिक्शतां पक्श्मकृदृशाम् ॥१५॥
पतिसुतान्वयभ्रातृबान्धवा-
नतिविलङ्घय तेऽन्त्यच्युतागताः।
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निसि ॥१६॥
रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्शणम्।
बृहदुरः श्रियो विक्श्य धाम ते
मुहुरतिस्पृहा मुह्यते मनः ॥१७॥
व्रजवनौकसां व्यत्क्तिरङ्ग ते
वृजिनहन्त्र्यलं विश्वमङ्गलम्।
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
स्वजनहृद्रुजां यत्रिषूदनम् ॥१८॥
यत्ते सुजातचरणाम्बुरुहं स्तनेष
भीताः शनैः प्रिय दधीमहि कर्कशेषु।
भीताः शनैः प्रिय दधीमहि कर्कशेषु।
तेनाटवीमटसि तद्व्यथते न किंस्वित्
कुर्पादिभिर्भ्रमति धिर्भवदायुषां नः ॥१९॥
इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥
कुर्पादिभिर्भ्रमति धिर्भवदायुषां नः ॥१९॥
इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥
Comments
Post a Comment